|
|
 |
 |
|
|
९ शाल्यपर्व.jpg)
॥ श्रीः ॥
9.30. अध्यायः 030
Mahabharata - Shalya Parva - Chapter Topics
कृपद्गौणिकृतवर्मसु हृदमेत्य दुर्योधनेन भापमाणेषु तत्र यदृच्छोपागतैर्व्याधैस्तद्दर्शनम्॥ 1 ॥ व्याधनिवेदनेन सपरिवारैः पाण़्डवैर्ह्रदं प्रत्यागमनम्॥ 2 ॥ तद्दर्शनेन कृपादिभिर्दुर्योधनाभ्यनुज्ञानेन दूरस्थन्यग्नोधतरुमेत्य तन्मूले उपवेशनम्॥ 3 ॥ दुर्योधनेन पुनर्जलस्तम्भनेन ह्रदप्रवेशनम्॥ 4 ॥

Mahabharata - Shalya Parva - Chapter Text
`सञ्जय उवाच। 9-30-0x(5133)(61902)
मुहूर्तादिव राजेन्द्र सर्वं शून्यमदृश्यत।
मत्तवारणसंघुष्टं शिबिरं विद्रुते बले॥ 9-30-1(61903)
यत्र शब्देन महता नान्वबुध्यन्महारथाः।
तत्र शब्दं न शृणुमो मनुष्यस्यापि कस्यचित्'॥ 9-30-2(61904)
धृतराष्ट्र उवाच। 9-30-3x(5134)
हतेषु सर्वसैन्येषु पाण्डुपुत्रै रणाजिरे।
मामकाश्चावशिष्टास्ते किमकुर्वत सञ्जय॥ 9-30-3(61905)
कृतवर्मा कृपश्चैव द्रोणपुत्रश्च वीर्यवान्।
दुर्योधनश्च मन्दात्मा राजा किमकरोत्तदा॥ 9-30-4(61906)
सञ्जय उवाच। 9-30-5x(5135)
सम्प्राद्रुवत्सु दारेषु क्षत्रियाणां महात्मनाम्।
विद्रुते शिबिरे शून्ये भृशोद्विग्नास्त्रयो रथाः॥ 9-30-5(61907)
निशम्य पाण्डुपुत्राणां तदा वैजयिनां स्वनम्।
विद्रुतं शिबिरं दृष्ट्वा सायाह्ने राजगृद्विनः।
स्थानं नारोचयंस्तत्र ततस्ते हदमभ्ययुः॥ 9-30-6(61908)
युधिष्ठिरोऽपि धर्मात्मा भ्रातृभिः सहितो रणे।
हृष्टः पर्यपतद्राजन्दुर्योधनवधेप्सया॥ 9-30-7(61909)
मार्गमाणास्तु सङ्क्रुद्धास्तव पुत्रं जयैषिणः।
यत्नतोऽन्वेषमाणास्ते नैवापश्यञ्जनाधिपम्॥ 9-30-8(61910)
यदा दुर्योधनो युद्धं त्यक्त्वा पद्भ्यां पराक्रममत्।
तं हदं प्राविशच्चापि विष्टभ्यापः स्वमायया॥ 9-30-9(61911)
यदा तु पाण्डवाः सर्वे सुपरिश्रान्तवाहनाः।
ततः स्वशिबिरं प्राप्य व्यतिष्ठन्त ससैनिकाः॥ 9-30-10(61912)
ततः कृपश्च द्रौणिश्च कृतवर्मा च सात्वतः।
सन्निविष्टेषु पार्थेषु प्रययुस्तं हदं शनैः॥ 9-30-11(61913)
ते तं हदं समासाद्य यत्र शेते जनाधिपः।
अभ्यभाषन्त दुर्धर्षं राजानं सुप्तमम्भसि॥ 9-30-12(61914)
राजन्नुत्तिष्ठ युध्यस्व सहास्माभिर्युधिष्ठिरम्।
जित्वा वा पृथिवीं भुङ्क्ष्व हतो वा स्वर्गमाप्नुहि॥ 9-30-13(61915)
तेषामपि बलं सर्वं हतं दुर्योधन त्वया।
प्रतिविद्धाश्च भूयिष्ठं ये शिष्टास्तत्र सैनिकाः॥ 9-30-14(61916)
न ते वेगं विषहितुं शक्तास्तव विशाम्पते।
अस्माभिरपि गुप्तस्य तस्मादुत्तिष्ठ भारत॥ 9-30-15(61917)
दुर्योधन उवाच। 9-30-16x(5136)
दिष्ट्या पश्यामि वो मुक्तानीदृशात्पुरुषक्षयात्।
पाण्डुकौरवसम्मर्दाज्जीवमानान्नरर्षभान्॥ 9-30-16(61918)
विजेष्यामो वयं सर्वे विश्रान्ता विगतक्लमाः।
भवन्तश्च परिश्रान्ता वयं च भृशविक्षताः।
उदीर्णं च बलं तेषां तेन युद्धं न रोचये॥ 9-30-17(61919)
न त्वेतदद्भुतं वीरा यद्वो महदिदं मनः।
अस्मासु च परा शक्तिर्न तु कालः पराक्रमे॥ 9-30-18(61920)
विश्रम्यैकां निशामद्य भवद्भिः सहितो रणे।
प्रतियोत्स्याम्यहं शत्रूञ्श्वो न स्याच्च श्रमो मम॥ 9-28-19(61921)
सञ्जय उवाच। 9-28-20x(5137)
एवमुक्तोऽब्रवीद्द्रौणी राजानं युद्धदुर्मदम्।
उत्तिष्ठ राजन्भद्रं ते विजेष्यामो वयं परान्॥ 9-28-20(61922)
इष्टापूर्तेन दानेन सत्येन च जपेन च।
शपे राजन्यथा ह्यद्य निहनिष्यामि सोमकान्॥ 9-28-21(61923)
मा स्म यज्ञकृतां प्रीतिमाप्नुयां सज्जनोचिताम्।
यदीमां रजनीं व्युष्टां न हि हन्मि परान्रणे॥ 9-30-22(61924)
नाहत्वा सर्वपाञ्चालान्विमोक्ष्ये कवचं विभो।
उत्तिष्ठ त्वं ब्रवीम्येतत्तन्मे शृणु जनाधिप॥ 9-30-23(61925)
तेषु सम्बाषमाणेषु व्याधास्तं देशमाययुः।
मांसभारपरिश्रान्ताः पानीयार्थं यदृच्छया॥ 9-30-24(61926)
ते हि नित्यं महाराज भीमसेनस्य लुब्धकाः।
मांसभारानुपाजह्नुर्भक्त्या परमया विभो॥ 9-30-25(61927)
ते तत्र धिष्ठितास्तेषां सर्वं तद्वचनं रहः।
दुर्योधनवचश्चैव शुश्रुवुः सङ्गता मिथः॥ 9-30-26(61928)
तेऽपि सर्वे महेष्वासा अयुद्धार्थिनि कौरवे।
निर्बन्धं परमं चक्रुस्तदा वै युद्धकाङ्क्षिणः॥ 9-30-27(61929)
तांस्तथा समुदीक्ष्याथ कौरवाणां महारथान्।
अयुद्धमनसं चैव राजानं स्थितमम्भसि॥ 9-30-28(61930)
तेषां श्रुत्वा च संवादं राज्ञश्च सलिले सतः।
व्याधा ह्यजानन्राजेन्द्र सलिलस्थं सुयोधनम्॥ 9-30-29(61931)
ते पूर्वं पाण्डुपुत्रेण पृष्टा ह्यासन्सुतं तव।
यदृच्छोपगतास्तत्र राजानं परिमार्गता॥ 9-30-30(61932)
ततस्ते पाण्डुपुत्रस्य स्मृत्वा तद्भाषितं तदा।
अन्योन्यमब्रुवन्राजन्मृगव्याधाः शनैरिव॥ 9-30-31(61933)
दुर्योधनं ख्यापयामो धनं दास्यति पाण्डवः।
सुव्यक्तमिह नः ख्यातो हदे दुर्योधनोनृपः॥ 9-30-32(61934)
तस्माद्गच्छामहे सर्वे यत्र राजा युधिष्ठिरः।
आख्यातुं सलिले सुप्तं दुर्योधनममर्षणम्॥ 9-30-33(61935)
धृतराष्ट्रात्मजं तस्मै भीमसेनाय धीमते।
शयानं सलिले सर्वे कथयामो धनुर्भृते॥ 9-30-34(61936)
स नो दास्यति सुप्रीतो धनानि बहुलान्युत।
किं नो मांसेन शुष्केण परिक्लिष्टेन शोषिणा॥ 9-30-35(61937)
एवमुक्त्वा तु ते व्याधाः सम्प्रहृष्टा धनार्थिनः।
मांसभारानुपादाय प्रययुः शिबिरं प्रति॥ 9-30-36(61938)
पाण़्डवाश्च महाराज लब्धलक्षाः प्रहारिणः।
अपश्यमानाः समरे दुर्योधनमवस्थितम्॥ 9-30-37(61939)
निकृतिज्ञस्य पापस्य तस्याभिगमनेप्सया।
चारान्सम्प्रेषयामासुः समन्तात्तद्रणाजिरे॥ 9-30-38(61940)
आगम्य तु ततः सर्वे नष्टं दुर्योधनं नृपम्।
न्यवेदयन्त सहिता धर्मराजस्य सैनिकाः॥ 9-30-39(61941)
तेषां तद्वचनं श्रुत्वा चाराणां भरतर्षभ।
चिन्तामभ्यगमत्तीव्रां निशश्वास च पार्थिवः॥ 9-30-40(61942)
`अरिशेषे जीवति तु सन्दिग्धो विजयो भवेत्।
राज्यं लभे कथं तद्वि पूजितं विजयादिभिः'॥ 9-30-41(61943)
अथ स्थितानां पाण्डूनां दीनानां भरतर्षभ।
तस्माद्देशादपक्रम्य त्वरिता लुब्धका विभो॥ 9-30-42(61944)
आजग्मुः शिबिरं हृष्टा दृष्ट्वा दुर्योधनं नृपम्।
वार्यमाणाः प्रविष्टाश्च भीमसेनस्य पश्यतः॥ 9-30-43(61945)
ते तु पाण्डवमासाद्य भीमसेनं महाबलम्।
तस्मै तत्सर्वमाचख्युर्यद्वृत्तं यच्च वै श्रुतम्॥ 9-30-44(61946)
ततो वृकोदरो राजन्दत्त्वा तेषां धनं बहु।
धर्मराजाय तत्सर्वमाचचक्षे परन्तपः॥ 9-30-45(61947)
असौ दुर्योधनो राजन्विज्ञातो मम लुब्धकैः।
संस्तभ्य सलिलं शेते यस्यार्थे परितप्यसे॥ 9-30-46(61948)
तद्वचो भीमसेनस्य प्रियं श्रुत्वा विशाम्पते।
अजातशत्रुः कौन्तेयो हृष्टोऽभूत्सह सोदरैः॥ 9-30-47(61949)
तं च श्रुत्वा महेष्वासं प्रविष्टं सलिलहदे।
क्षिप्रमेव ततोऽगच्छन्पुरस्कृत्य जनार्दनम्॥ 9-30-48(61950)
ततः किलकिलाशब्दः प्रादुरासीद्विशाम्पते।
पाण्डवानां प्रहृष्टानां पाञ्चालानां च सर्वशः॥ 9-30-49(61951)
सिंहनादांस्ततश्चक्रुः क्ष्वेडाश्च भरतर्षभ।
त्वरिताः क्षत्रिया राजन्नुदक्रोशन्परस्परम्॥ 9-30-50(61952)
ज्ञातः पापो धार्तराष्ट्रो दृष्टश्चेत्यसकृद्रणे।
प्राक्रोशन्सोमकास्तत्र हृष्टरूपाः समन्ततः॥ 9-30-51(61953)
तेषामाशु प्रयातानां रथानां तत्र वेगिनाम्।
वभूव तुमुलः शब्दो दिवस्पृक् पृथिवीपते॥ 9-30-52(61954)
दुर्योधनं परीप्सन्तस्तत्रतत्र युधिष्ठिरम्।
अन्वयुस्त्वरितास्ते वै राजानं श्रान्तवाहनाः॥ 9-30-53(61955)
अर्जुनो भीमसेनश्च माद्रीपुत्रौ च पाण्डवौ।
धृष्टद्युम्नश्च पाञ्चाल्यः शिखण्डी चापराजितः॥ 9-30-54(61956)
उत्तमौजा युधामन्युः सात्यकिश्च महारथः।
पाञ्चालानां च ये शिष्टा द्रौपदेयाश्च भारत।
हयाश्च सर्वे नागाश्च शतशश्च पदातयः॥ 9-30-55(61957)
ततः प्राप्तो महाराज धर्मराजः प्रतापवान्।
द्वैपायनहदं घोरं यत्र दुर्योधनोऽभवत्॥ 9-30-56(61958)
शीतामलजलं हृद्यं द्वितीयमिव सागरम्।
मायया सलिलं स्तभ्य यत्राभूत्ते स्थितः सुतः॥ 9-30-57(61959)
अत्यद्भुतेन विधिना दैवयोगेन भारत।
सलिलान्तर्गतः शेते दुर्दर्शः कस्यचित्प्रभो। 9-30-58(61960)
मानुषस्य मनुष्येन्द्र गदाहस्तो जनाधिपः॥ 9-30-59(61961)
ततो दुर्योधनो राजा सलिलान्तर्गतो वसन्।
शुश्रुवे तुमुलं शब्दं जलदोपमनिःस्वनम्॥ 9-30-59(61962)
युधिष्ठिरश्च राजेन्द्र तं हदं सह सोदरैः।
आजगाम महाराज तव पुत्रवधाय वै॥ 9-30-60(61963)
महता शङ्खनादेन रथनेमिस्वनेन च।
ऊर्ध्वं धुन्वन्महारेणुं कम्पयंश्चापि मेदिनीम्॥ 9-30-61(61964)
यौधिष्ठिरस्य सैन्यस्य श्रुत्वा शब्दं महारथाः।
कृतवर्मा कृपो द्रौणी राजानमिदमब्रुवन्॥ 9-30-62(61965)
इमे ह्यायान्ति संहृष्टाः पाण्डवा जितकाशिनः।
अपयास्यामहे तावदनुजानातु नो भवान्॥ 9-30-63(61966)
दुर्योधनस्तु तच्छ्रुत्वा तेषां तत्र तरस्विनाम्।
तथेत्युक्त्वा हदं तं वै माययाऽस्तम्भयत्प्रभो॥ 9-30-64(61967)
ते त्वनुज्ञाप्य राजानं भृशं शोकपरायणाः।
जग्मुर्दूरे महाराज कृपप्रभृतयो रथाः॥ 9-30-65(61968)
ते गत्वा दूरमध्वानं न्यग्रोधं प्रेक्ष्य मारिष।
न्यविशन्त भृशं श्रान्ताश्चिन्तयन्तो नृपं प्रति॥ 9-30-66(61969)
विष्टभ्य सलिलं सुप्तो धार्तराष्ट्रो महाबलः।
पाण्डवाश्चापि सम्प्राप्तास्तं देशं युद्धमीप्सवः॥ 9-30-67(61970)
कथं नु युद्धं भविता कथं राजा भविष्यति।
कथं नु पाण्डवा राजन्प्रतिपत्स्यन्ति कौरवम्॥ 9-30-68(61971)
इत्येवं चिन्तयानास्तु रथेभ्योऽश्वान्विमुच्य ते।
तत्रासाञ्चक्रिरे राजन्कृपप्रभृतयो रथाः॥ ॥ 9-30-69(61972)
इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि अष्टादशदिवसयुद्धे त्रिंशोऽध्यायः॥ 30 ॥
Mahabharata - Shalya Parva - Chapter Footnotes
9-30-18 अस्मासु च परा भक्तिर्दर्शिता कार्यगौरवात्। इति ङ. पाठः॥ 9-30-22 यज्ञकृतां प्रीति यज्ञादिजस्य पुण्यस्य फलम्॥ 9-30-39 नष्टं अदृश्यत्वं गतं लीनमित्यर्थः॥ 9-30-30 त्रिंशोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|